ऋद्धिः
सर्वास् समग्रर्द्धयो हिरण्येऽस्मिन् समाहृताः । - खिल ४.६.२
रोहिण्यां वा एतं प्रजापतिराधत्त तया रोहमरोहत् तद्रोहिण्या रोहिणीत्वमेष वै मनुष्यस्य स्वर्गो लोको यदस्मिंल्लोके वसीयान् भवत्यृद्ध्या एव – काठ.सं. ८.१
शिशिर आधेयश्शिशिरं वा अग्नेर्जन्म प्रजातमेवैनमाधत्ते सर्वासु दिक्ष्वृध्नवानीति वा अग्निमाधत्ते सर्वासु दिक्ष्वग्निश्शिशिरे सर्वास्वेव दिक्ष्वृध्नोति यश्शिशिरेऽग्निमाधत्ते - काठ ८.१ यदाग्नेय ऋद्ध्या एवाग्नेयोऽग्निमुखा ह्यृद्धिः - काठ ३७.३
दर्शपूर्णमासः - अग्निमुखा ह्यृद्धिः । अग्निमुखामेवर्द्धिं यजमान ऋध्नोति । सकृदुपस्तीर्य द्विरादधत् । उपस्तीर्य द्विरभिघारयति । षट्संपद्यन्ते । षड्वा ऋतवः । ऋतूनेव प्रीणाति । - तैब्रा ३.३.८.९
ब्राह्मणयज्ञः सौत्रामण्यृद्धिकामस्य – का.श्रौ.सू. १९.१.१
पौण्डरीकः सर्वर्द्धिकामस्य का.श्रौ.सू. २३.५.३३
सप्तविंशतिरात्रमृद्धिकामानाम् का.श्रौ.सू. २४.२.२५
ऋद्धं च म ऽ ऋद्धिश् च मे – वा.सं. १८.११, तै.सं. ४.७.२.२
ऋध्नवत् खलु स इत्य् अब्रवीद् यो मद्देवत्यम् अग्निम् आदधाता इति तम् पूषाधत्त तेन पूषार्ध्नोत् तस्मात् पौष्णाः पशव उच्यन्ते तम् त्वष्टाऽऽधत्त तेन त्वष्टाऽऽर्ध्नोत् तस्मात् त्वाष्ट्राः पशव उच्यन्ते तम् मनुर् आधत्त तेन मनुर् आर्ध्नोत् तस्मान् मानव्यः प्रजा उच्यन्ते तम् धाताऽऽधत्त तेन धाताऽऽर्ध्नोत् संवत्सरो वै धाता तस्मात् संवत्सरम् प्रजाः पशवोनु प्र जायन्ते । य एवम् पुनराधेयस्यर्द्धिं वेद। ऋध्नोत्य् एव यो ऽस्यैवं बन्धुतां वेद बन्धुमान् भवति । तैसं. १.५.१.५
यद् वा अग्निर् आहितो नर्ध्यते ज्यायो भागधेयं निकामयमानो यद् आग्नेयꣳ सर्वम् भवति सैवास्यर्द्धिः – तैसं १.५.२.२
आदित्या वा अस्माल् लोकाद् अमुं लोकम् आयन् ते ऽमुष्मिम्̐ लोके व्यतृष्यन् त इमं लोकम् पुनर् अभ्यवेत्याग्निम् आधायैतान् होमान् अजुहवुस् त आर्ध्नुवन् ते सुवर्गं लोकम् आयन् यः पराचीनम् पुनराधेयाद् अग्निम् आदधीत स एतान् होमाञ् जुहुयाद् याम् एवादित्या ऋद्धिम् आर्ध्नुवन् ताम् एवर्ध्नोति – तैसं १.५.४.४
देवा वै सत्त्रम् आसत ऋद्धिपरिमितं यशस्कामास् तेषाꣳ सोमꣳ राजानं यश आर्छत् स गिरिम् उद् ऐत् तम् अग्निर् अनूद् ऐत् ताव् अग्नीषोमौ सम् अभवताम् । तैसं. २.३.३.१
अन्वारम्भणीयेष्टिः - सरस्वत्यै चरुꣳ सरस्वते द्वादशकपालम् । यद् आग्नेयो भवत्य् अग्निर् वै यज्ञमुखं यज्ञमुखम् एवर्द्धिम् पुरस्ताद् धत्ते – तैसं. ३.५.१.४
प्रथमचितौ – अक्ष्णया उप दधाति तस्माद् अक्ष्णया पशवो ऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै याः प्राचीस् ताभिर् वसिष्ठ आर्ध्नोत् । या दक्षिणा ताभिर् भरद्वाजः । याः प्रतीचीस् ताभिर् विश्वामित्रः । या उदीचीस् ताभिर् जमदग्निः । या ऊर्ध्वास् ताभिर् विश्वकर्मा य एवम् एतासाम् ऋद्धिं वेदर्ध्नोत्य् एव- तैसं. ५.२.१०.५
यो ऽग्न्याधेयेन न ऋध्नोति स पुनराधेयम् आ धत्ते यो ऽग्निं चित्वा नर्ध्नोति स पुनश्चितिं चिनुते यत् पुनश्चितिं चिनुत ऋद्ध्यै । - तैसं. ५.४.१०.५ यत् पर्यग्निकृतम् पात्नीवतम् उत्सृजति याम् एव मनुर् ऋद्धिम् आर्ध्नोत् ताम् एव यजमान ऋध्नोति – तैसं ६.६.६.१
अंशुग्रहकथनम् - यद् अध्वर्युर् अꣳशुं गृह्णन् नार्धयेद् उभाभ्यां नर्ध्येताध्वर्यवे च यजमानाय च यद् अर्धयेद् उभाभ्याम् ऋध्येत । अनवानं गृह्णाति सैवास्यर्द्धिः ।- तैसं. ६.६.१०.२
अत्रिꣳ श्रद्धादेवं यजमानं चत्वारि वीर्याणि नोपानमन् तेज इन्द्रियम् ब्रह्मवर्चसम् अन्नाद्यम् । स एताꣳश् चतुरश् चतुष्टोमान्त् सोमान् अपश्यत्.... याम् एवात्रिर् ऋद्धिम् आर्ध्नोत् ताम् एव यजमाना ऋध्नोति ॥ - तैसं. ७.१.८.२
एताꣳ ह वा उदङ्कः शौल्बायनः सत्त्रस्यर्द्धिम् उवाच यद् दशरात्रः । यद् दशरात्रो भवति सत्त्रस्यर्द्ध्यै । अथो यद् एव पूर्वेष्व् अहःसु विलोम क्रियते तस्यैवैषा शान्तिः ।- तैसं. ७.४.५.४
एताꣳ ह वा उदङ्कः शौल्बायनः सत्त्रस्यर्द्धिम् उवाच यद् दशरात्रः । यद् दशरात्रो भवति सत्त्रस्यर्द्ध्यै । अथो यद् एव पूर्वेष्व् अहःसु विलोम क्रियते तस्यैवैषा शान्तिः ॥ तैसं. ७.५.४.२
आत्मदक्षिणं वै सत्त्रम् आत्मानम् एव दक्षिणां नीत्वा सुवर्गं लोकं यन्ति शिखाम् अनु प्र वपन्ते । ऋद्ध्यै । - तैसं. ७.४.९.१ सत्त्रस्यर्द्ध्याऽऽहवनीयस्यान्ते स्तुवन्ति । अग्निम् एवोपद्रष्टारं कृत्वर्द्धिम् उप यन्ति – तैसं. ७.५.८.१
कस् त्वा युनक्ति स त्वा युनक्तु विष्णुस् त्वा युनक्तु । अस्य यज्ञस्यर्द्ध्यै मह्यꣳ संनत्यै । - तैसं. ७.५.१३.१
त्रेधा विभज्य देवतां जुहोति त्र्यावृतो वै देवास्त्र्यावृत इमे लोका ऋद्ध्यामेव वीर्य एषु लोकेषु प्रतितिष्ठति – माश १३.१.७.२
प्रेतसंस्कारः - प्रेष्यति युगपदग्नीन्प्रज्वालयतेति १.... युगपत्प्राप्तौ परामृद्धिं वदन्ति आश्व.गृ.सू. ४.४.५